सन्ध्यासु अभ्यवहारादिनिषेधमीमांसा

Educational Content May 25, 2021

सूत्रम्– संध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम्।– अ हृ सू २/४२

सरलार्थः– सन्ध्याकाले अभ्यवहारः नाम भोजनं, स्त्री नाम व्यवायः, अध्ययनं, चिन्तनम् एतत् न करणीयम्।

प्रश्नः– सन्ध्याकाले एतेषां निषेधः किमर्थम् ? सन्ध्याकाले यदि एतानि कर्माणि क्रियन्ते तर्हि दृष्टः अपायः अस्ति अथवा अदृष्टं पापरूपं किमपि भवति ?

यदि दृष्टः अपायः तर्हि का तस्य चिकित्सा?

उत्तरम्–

एतानि कर्माणि कृतानि चेत् दृष्टः अपायः अस्ति।अदृष्टः अपि अपायः अस्ति। कथम्? उच्यते।

तत्र प्रथमं दृष्टम् अपायं पश्यामः–

तदर्थम् एते विषयाः ज्ञातव्याः–

१) दिवसस्य विभागे ऋतवः

सुश्रुते सूत्रस्थाने षष्ठे अध्याये सूत्रम्–

तत्र, पूर्वाह्णे वसन्तस्य लिङ्गं, मध्याह्ने ग्रीष्मस्य, अपराह्णे प्रावृषः, प्रदोषे वार्षिकं, शारदमर्धरात्रे, प्रत्युषसि हैमन्तमुपलक्षयेत्;

एवमहोरात्रमपि वर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपशमैर्जानीयात् ||१४||– सु सू ६/१४

एतस्मिन् सूत्रे किम् उक्तम्? यथा संवत्सरे षट् ऋतवः भवन्ति तथा एव दिवसे अपि भवन्ति। अत्र ऋतुः भवति इत्यस्य ऋतुसदृशाः गुणा भवन्ति इति अर्थः।

सूत्रोक्तः अर्थः–

दिवसकालः -- ऋतुः

पूर्वाह्णः -- वसन्तः

मध्याह्नः -- ग्रीष्मः

अपराह्णः -- प्रावृट्

प्रदोषः -- वर्षा

अर्धरात्रम् -- शरत्

प्रत्यूषा -- हेमन्तः

२) ऋतूनां वर्षादिक्रमः–

ऋतूनां वर्णने शिशिरादिक्रमः उक्तः। परं दोषाणां सञ्चयप्रकोपप्रशमाः तथा शोधनकालः इति एतस्मिन् विषये तु वर्षादिक्रमः उक्तः। कः एषः क्रमः ?

सुश्रुते सूत्रस्थाने षष्ठे अध्याये–

इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः षडृतवो भवन्ति, दोषोपचयप्रकोपोपशमनिमित्तं; ते तु भाद्रपदाद्येन द्विमासिकेन व्याख्याताः; तद्यथा- भाद्रपदाश्वयुजौ वर्षाः, कार्तिकमार्गशीर्षौ शरत्, पौषमाघौ हेमन्तः, फाल्गुनचैत्रौ वसन्तः, वैशाखज्येष्ठौ ग्रीष्मः; आषाढश्रावणौ प्रावृडिति ||१०||- सु सू ६/१०

वर्षा, शरत्, हेमन्तः, वसन्तः, ग्रीष्मः, प्रावृट् इति षट् ऋतवः भवन्ति।

प्रावृट् नाम यदा प्रकर्षेण वर्षा भवति सः कालः।

३) उक्तेषु ऋतुषु दोषाणां सञ्चयप्रकोपप्रशमाः तेषां कारणं च–

एतेषाम् ऋतूनां प्रभावेण सृष्टौ विशिष्टं परिवर्तनं भवति। तेन ओषधीषु नाम वनस्पतीषु तथा जले परिवर्तनं भवति। पुरुषः अन्नं तथा जलम् एतयोः एव सेवनं करोति। अन्नस्य जलस्य च ये गुणाः तदनुसारं पुरूषस्य शरीरे दोषाणां स्थितिः भवति।

अतः तदनुसारम् एव ऋतुषु दोषाणां सञ्चयादिकम् उक्तम्–

तत्र, वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रशान्ताः क्षितिमलप्रायाः, ता उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टम्भिताग्नीनां विदह्यन्ते, विदाहात् पित्तसञ्चयमापादयन्ति; स सञ्चयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्केऽर्ककिरणप्रविलायितः पैत्तिकान् व्याधीञ्जनयति |

ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रशान्ताः स्निग्धा अत्यर्थं गुर्व्याश्च, ता उपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिनामविदग्धाः स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मसञ्चयमापादयन्ति; स सञ्चयो वसन्तेऽर्करश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीञ्जनयति |

ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो भवन्त्यापश्च, ता उपयुज्यमानाः सूर्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुत्वाच्च वायोः सञ्चयमापादयन्ति; स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां देहिनां शीतवातवर्षेरितो वातिकान् व्याधीञ्जनयति |एवमेष दोषाणां सञ्चयप्रकोपहेतुरुक्तः ||११||

अस्य सूत्रस्य आशयः–

A)

ऋतुः -वर्षा

सृष्टिः- ओषधयः– तरुण–अल्पवीर्याः जलम्–क्षितिमलयुक्तम्

पुरुषः- क्लिन्नदेहः शीतवातविष्टम्भिताग्निः

परिणामः- अन्नविदाहः, पित्तसञ्चयः

B )

ऋतुः- शरत्

सृष्टिः- –

पुरुषः अर्ककिरणप्रविलायितः पित्तसञ्चयः

परिणामः- पित्तप्रकोपः

C)

ऋतुः- हेमन्तः

सृष्टिः- ओषधयः– परिणतवीर्याः,बलवत्यः जलम्– स्निग्धम् अतिगुरु

पुरुषः- सतुषारपवन– उपस्तम्भितदेहः स्निग्धता, शैत्यम्,गौरवम्, उपलेपः

परिणामः- श्लेष्मसञ्चयः

D)

ऋतुः- वसन्तः

सृष्टिः-

पुरुषः- अर्करश्मिप्रविलायितः सञ्चयः

श्लेष्मप्रकोपः

E)

ऋतुः- ग्रीष्मः

सृष्टिः- ओषधयः– निःसाराः, रूक्षाः, अतिलघ्व्यः जलम्–अतिलघु, निःसारम्

पुरुषः- सूर्यप्रताप–उपशोषितदेहः रूक्षः, लघुः

परिणामः- वातसञ्चयः

F)

ऋतुः- प्रावृट्

सृष्टिः- अत्यन्तजलक्लिन्नभूमिः शीतवातः, वर्षा

पुरुषः- क्लिन्नदेहः

परिणामः- वातप्रकोपः

४) सन्ध्या नाम कः कालः?

सन्ध्या शब्दस्य अर्थः अस्ति द्वयोः कालयोः संयोगः। अहोरात्रे प्रायः सन्ध्याकालद्वयं भवति।

प्रथमः सन्ध्याकालः– रात्रिः तथा दिवसः एतयोः संयोगकालः।

द्वितीयः सन्ध्याकालः– दिवसः तथा रात्रिः एतयोः संयोगकालः।

इदानीम् उपरि उक्तानाम् विषयाणाम् आधारेण प्रश्नस्य उत्तरं पश्यामः।

प्रथमः सन्ध्याकालः नाम अपराह्णं तथा प्रदोषकालः एतयोः संयोगः।

अपराह्णं नाम दिवसस्य अन्तिमः भागः।

प्रदोषः नाम सूर्यास्तानन्तरं घटिकाद्वयकालः।(१ घटिका = २४ मिनिट)

अतः अस्मिन् सन्ध्याकाले एते ऋतवः भवन्ति– प्रावृट् तथा वर्षा ।

अत्र सृष्टौ पुरुषे च स्थितिः पूर्वम् उक्ता। यदि अत्र अभ्यवहारादिकं कर्म क्रियते तर्हि किं भवति?

अभ्यवहारः–

प्रावृषि क्लिन्नदेहः– स्रोतांसि पिहितानि

वर्षासु – उपष्टब्धाग्निः।

एताभ्यां कारणाभ्यां अन्नस्य विदाहः एव स्यात्। विदाहेन च पित्तकोपः आमदोषाणां च उत्पत्तिः स्यात्।

स्त्रीसेवा (व्यवायः)

प्रावृषि– संचितवातस्य प्रकोपकालः। व्यवायश्च वातकोपहेतुः।

वर्षासु– उपष्टब्धाग्निः।

व्यवायेन वातप्रकोपार्थम् अधिकः एकः हेतुः लभ्यते। तथा च अग्निमूलं बलं पुंसाम् इत्युक्तम्। अग्निः अत्र उपष्टब्धः(आवृतः) तेन बलमपि अल्पमेव। तत्र शुक्रक्षयेन अत्यधिका बलहानिः स्यात्।

स्वप्नः(निद्रा)

प्रावृषि– क्लिन्नदेहः– स्रोतांसि आवृतानि।

वर्षासु– उपष्टब्धाग्निः।

निद्रया पुनः स्रोतसाम् क्लेदनम् अग्नेः च मान्दयम्। तेन आलस्य तन्द्रादयः कफरोगाः स्युः।

अध्ययनम्

अध्ययनार्थं मेधा(ग्रन्थाकर्षणअवधारणशक्तिः), बुद्धिः इत्यादिकम् अपेक्षितम्।

वाग्भटोक्तं सूत्रद्वयमत्र चिन्तनीयम्–

बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात्।

साधकं (पित्तम्)..॥ अ हृ सू १२

तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम्।

करोति बलदानेन..॥ अ हृ सू १२

एताभ्यां सूत्राभ्यां ज्ञायते–

१–मेधादीनां कृते साधकपित्तं प्रबलम् अपेक्षितम्।

२–साधकपित्तस्य बलं पाचकपित्तस्य(अग्नेः) बलसापेक्षम्।

प्रावृषि– क्लिन्नदेहः– (अब्धातुः अधिकः)

वर्षासु– उपष्टब्धाग्निः

अतः जाठराग्नेः बलं न्यूनम्। तेन साधकपित्तस्य बलं न्यूनम्। तेन च मेधादिकं न सम्यक् कार्यं करिषयति। अतः अध्ययनं कृतं चेदपि तत् व्यर्थं दोषयुक्तं वा स्यात्।

अन्यच्च–

ऋतुद्वये अपि आवरणावस्था अस्ति– प्रावृषि स्रोतसाम्, वर्षायामग्नेः।

आवरणं च तमोगुणात्मकम्– ( गुरु वरणकमेव तमः– सां का)

अध्ययनार्थं तु प्रकाशः अर्थात् सत्त्वगुणः आवश्यकः। (सत्त्वं लघु प्रकाशकम्– सां का)

अतः अस्मिन् काले कृतम् अध्ययनं सम्यक् न भवति।

चिन्तनम्

चिन्तनम् इति मनसः कार्यम्।

पूर्ववत् एव तमोगुणस्य प्रभावात् मनः प्रसन्नानां विषयाणां चिन्तने प्रवृत्तं न भवति। तेन विकृताः विचाराः प्रादुर्भवन्ति।

अतः चिन्तनमपि न लाभकरम्।

एवं प्रथमे सन्ध्याकाले अभ्यवहारादीनां सेवने दृष्टः अपायः अस्ति।

एवमेव द्वितीये सन्ध्याकाले ऋतवः– शरत् हेमन्तश्च।

अतः तत्र–

अभ्यवहारः–

शरत्– पित्तकोपः

हेमन्तः– उपलेपः– (स्रोतसाम्)

प्रकुपितेन पित्तेन भुक्तस्य विदाहः अवरुद्धेषु स्रोतस्सु अन्नस्य चिरकालं स्थानात् अत्यधिकः विदाहः स्यात्।

स्त्रीसेवा–

शरत्– पित्तकोपः

हेमन्तः– गुरु–उपलिप्तानि स्रोतांसि

व्यवायजन्यः य उष्मा तेन अधिकः पित्तकोपः स्यात्। व्यवायजन्यः य प्रकुपितः वातः सः उपलिप्तेषु स्रोतःसु अवरुद्धः सन् अधिकमेव प्रकुपितः स्यात्।

स्वप्नम्–

शरत्– पित्तप्रकोपः

हेमन्तः– स्निग्ध–गुरु–उपलिप्तानि स्रोतांसि

निद्रया स्रोतसाम् अत्यन्तमावरणं स्यात्। तेनः भूयः कफवृद्धिः। स्निग्धगुणेन पित्तस्य च प्रकोपः स्यात्।

अध्ययनम्–

शरत्– पित्तप्रकोपः

हेमन्तः उपलेपः।

अत्र प्रकुपितेन पित्तेन रजोगुणस्य वृद्धिः स्यात्।(रजोबहुलोऽग्निः।) तेन च अवधारणादिकं न सम्यक् भवेत्।

उपलेपेन च पूर्ववत् आवरणम् तमोगुणप्रभावश्च।

चिन्तनम्–

अध्ययनवदेव रजोगुणतमोगुणप्रभावात् चाञ्चल्यादयः दोषाः भवन्ति।

एवम् अस्मिन्नपि सन्ध्याकाले अभ्यवहारादीनां सेवने दृष्टः अपायः अस्ति।

एवं प्रकारेण अभ्यवहारादीनां निषिद्धे सन्ध्याकालद्वये सेवनेन दृष्टः अपायः भवति।

अधुना अदृष्टम् अपायं पश्यामः।

अदृष्टं फलं तु आप्तोपदेशेन एव ज्ञायते। अतः अत्र धर्मशास्त्रं प्रमाणम्।

मनुस्मृतौ टीकायां स्मृत्यन्तरे इति एकः सन्दर्भः उक्तः–

चत्वार्येतानि कर्माणि सन्ध्याकाले तु वर्जयेत्।

आहारं मैथुनं निद्रां तथा संपाठमेव च॥ मनु ४/५५– मेधातिथिभाष्यम्।

यदि एतानि कर्माणि सन्ध्याकाले भवन्ति तर्हि अदृष्टः अपायः भवति। तत्र अध्ययनविषये अदृष्टः अपायः अत्र उदाहरणरूपेण उच्यते–

अनध्यायेष्वध्ययने प्रज्ञामायुः प्रजां श्रियम्।

ब्रह्मचर्यश्रियं तेजो निकृन्तति यमः स्वयम्॥– स्मृत्यर्थसारः

अर्थात् सन्ध्याकालरूपे अनध्यायकाले अध्ययनं कृतं चेत् प्रज्ञा, आयुः प्रजा सम्पत् इत्यादीनां नाशः भवति। किमर्थम्? तत्र अदृष्टमेव कारणम्।

एवं प्रकारेण अन्येषामपि अदृष्टफलानि धर्मशास्त्रेषु अन्वेषणीयानि।

तस्मात् सन्ध्यासु अभ्यवहारादीनां सेवनेन दृष्टः अदृष्टः च अपायः भवति इति सिद्धम्।

कः अत्र उपायः?

हेतुवर्जनमेव अत्र प्रधानः उपायः। अतः एव आचार्यैः दिनचर्यायाम् एव इदं वचनमुक्तम्। यदि सन्ध्याकाले एतेषां सेवनं न भवति तर्हि अपायः अपि न भवति।

किं तर्हि कर्तव्यं सन्ध्याकाले?

शारीराणां दोषाणां चयप्रकोपानां शमः तु स्वयं कालेन भवति। तथा च दिनचर्यायाम् उक्ताः उपायाः एव एतेषां चयप्रकोपाणां निवर्तकाः भवन्ति।

अतः उक्तं डल्लणेन–

आह्निकौ चयप्रकोपौ...अल्पेनैवानागताबाधविधानेन शान्तिमुपयातः।– सु सू ६/१४ टीका

मानसानां दोषाणां कृते तु जपादिकानाम् अनुष्ठानेन तमोनाशः सत्त्ववृद्धिश्च स्यात्।

इत्युक्ता सन्ध्यासु अभ्यवहारादिनिषेधे कारणमीमांसा ।

.

लेखक: - नन्द कुलकर्णी

Tags

Admin

Admin Team of Vidya Chintan